Ganesh Sahasranamam [Mantra]

Rajalakshmee Sanjay

0 fans

Rajalakshmee Sanjay


27:25

 The easy, fast & fun way to learn how to sing: 30DaySinger.com

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्,
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १॥
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २॥
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३॥
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ ४॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६॥
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥ ७॥
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ ९॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १०॥
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।
उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ ११॥
किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२॥
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ १४॥
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५॥
गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी ।
देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ १६॥
विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।
वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७॥
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९॥
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ २०॥
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१॥
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ २३॥
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४॥
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५॥
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६॥
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ २७॥
प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ २८॥
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९॥
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ ३०॥
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ ३२॥
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४॥
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५॥
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ ३७॥
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८॥
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९॥
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४०॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ ४१॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ ४२॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ ४३॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४४॥
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ ४५॥
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४६॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४७॥
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥ ४८॥
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।
दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४९॥
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ।
विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ ५०॥
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५१॥
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।
कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५२॥
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ।
नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ ५३॥
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ ५४॥
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।
ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ ५५॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ॥ ५६॥
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।
विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ ५७॥
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।
ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ ५८॥
सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ॥ ५९॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६०॥
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६१॥
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६२॥
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ ६३॥
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ ६४॥
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः ।
अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ ६५॥
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठमाधार आधाराधेयवर्जितः ॥ ६६॥
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६७॥
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६८॥
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।
इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ ६९॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७०॥
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ ७१॥
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७२॥
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ ७३॥
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७४॥
एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७५॥
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ ७६॥
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ ७७॥
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ।
अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ७८॥
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७९॥
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८०॥
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।
खल्वाटश‍ृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८१॥
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८२॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ ८३॥
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ ८४॥
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।
चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ ८५॥
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ ८६॥
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ ८७॥
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ।
ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ ८८॥
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।
ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ ८९॥
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।
तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ ९०॥
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ ९१॥
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ ९२॥
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।
धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ ९३॥
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९४॥
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९५॥
परं व्योम परं धाम परमात्मा परं पदम् ॥ ९६॥
परात्परः पशुपतिः पशुपाशविमोचनः ।
पूर्णानन्दः

 Become A Better Singer In Only 30 Days, With Easy Video Lessons!

Written by: Traditional

Lyrics © Phonographic Digital Limited (PDL)

Lyrics Licensed & Provided by LyricFind

Discuss the Ganesh Sahasranamam [Mantra] Lyrics with the community:

0 Comments

    Citation

    Use the citation below to add these lyrics to your bibliography:

    Style:MLAChicagoAPA

    "Ganesh Sahasranamam [Mantra] Lyrics." Lyrics.com. STANDS4 LLC, 2024. Web. 28 May 2024. <https://www.lyrics.com/lyric-lf/11211623/Rajalakshmee+Sanjay/Ganesh+Sahasranamam+%5BMantra%5D>.

    Missing lyrics by Rajalakshmee Sanjay?

    Know any other songs by Rajalakshmee Sanjay? Don't keep it to yourself!

    Browse Lyrics.com

    Quiz

    Are you a music master?

    »
    "All Out of Love" is a 1980 biggest hit single for which band?
    A Styx
    B Air Supply
    C Little River Band
    D The Hollies

    Free, no signup required:

    Add to Chrome

    Get instant explanation for any lyrics that hits you anywhere on the web!

    Free, no signup required:

    Add to Firefox

    Get instant explanation for any acronym or abbreviation that hits you anywhere on the web!

    Rajalakshmee Sanjay tracks

    On Radio Right Now

    Loading...

    Powered by OnRad.io


    Think you know music? Test your MusicIQ here!